श्री अम्बिकास्तवः ॐ श्री अम्बिकास्तवः ॐ 🌸🪷🔔🐚🌺 श्रीगिरीशप्रियां चिन्तितार्थप्रदां 🌹 रत्नताटङ्किनीं राजबिम्बाननाम् सैरिभेन्द्रादिमत्तेभपञ्चानना- 💮 मापदुत्तारिणीमम्बिकामाश्रये वारुणीसेवितां कीरवाणीस्तुतां 🌸 शत्रुसंहारिणीं श्रेयसः कारिणीम् वारुणीपारणां चारुसञ्चारिणी- 💐 मापदुत्तारिणीमम्बिकामाश्रये सत्रयीकोणमध्यस्थबिन्दूपरि- 🌺 प्रस्फुरद्रत्नसिंहासनाधिष्ठिताम् सर्वसौभाग्यसन्धायिनीं मायिनी- 🌟 मापदुत्तारिणीमम्बिकामाश्रये मातृकाभिः परीवारितां किञ्चिदु- 🌷 न्मीलतां धीवरप्रेक्षणानन्दिनीम् मत्तमातङ्गकुम्भोरुवक्षोरुहा- 💮 मापदुत्तारिणीमम्बिकामाश्रये यक्षगन्धर्वसिद्धाङ्गनामौलिग- 🌸 र्भस्थसूनातिसंवासिताङ्घ्रिद्वयम् मातृकारूपिणीं मातृयन्त्रात्मिका- 🌹 मापदुत्तारिणीमम्बिकामाश्रये वीरमाहेश्वरीं चारुधर्मक्रियां ...