ॐ श्री अम्बिकास्तवः ॐ
🌸🪷🔔🐚🌺
श्रीगिरीशप्रियां चिन्तितार्थप्रदां
🌹 रत्नताटङ्किनीं राजबिम्बाननाम्
सैरिभेन्द्रादिमत्तेभपञ्चानना-
💮 मापदुत्तारिणीमम्बिकामाश्रये
🌹 रत्नताटङ्किनीं राजबिम्बाननाम्
सैरिभेन्द्रादिमत्तेभपञ्चानना-
💮 मापदुत्तारिणीमम्बिकामाश्रये
वारुणीसेवितां कीरवाणीस्तुतां
🌸 शत्रुसंहारिणीं श्रेयसः कारिणीम्
वारुणीपारणां चारुसञ्चारिणी-
💐 मापदुत्तारिणीमम्बिकामाश्रये
🌸 शत्रुसंहारिणीं श्रेयसः कारिणीम्
वारुणीपारणां चारुसञ्चारिणी-
💐 मापदुत्तारिणीमम्बिकामाश्रये
सत्रयीकोणमध्यस्थबिन्दूपरि-
🌺 प्रस्फुरद्रत्नसिंहासनाधिष्ठिताम्
सर्वसौभाग्यसन्धायिनीं मायिनी-
🌟 मापदुत्तारिणीमम्बिकामाश्रये
🌺 प्रस्फुरद्रत्नसिंहासनाधिष्ठिताम्
सर्वसौभाग्यसन्धायिनीं मायिनी-
🌟 मापदुत्तारिणीमम्बिकामाश्रये
मातृकाभिः परीवारितां किञ्चिदु-
🌷 न्मीलतां धीवरप्रेक्षणानन्दिनीम्
मत्तमातङ्गकुम्भोरुवक्षोरुहा-
💮 मापदुत्तारिणीमम्बिकामाश्रये
🌷 न्मीलतां धीवरप्रेक्षणानन्दिनीम्
मत्तमातङ्गकुम्भोरुवक्षोरुहा-
💮 मापदुत्तारिणीमम्बिकामाश्रये
यक्षगन्धर्वसिद्धाङ्गनामौलिग-
🌸 र्भस्थसूनातिसंवासिताङ्घ्रिद्वयम्
मातृकारूपिणीं मातृयन्त्रात्मिका-
🌹 मापदुत्तारिणीमम्बिकामाश्रये
🌸 र्भस्थसूनातिसंवासिताङ्घ्रिद्वयम्
मातृकारूपिणीं मातृयन्त्रात्मिका-
🌹 मापदुत्तारिणीमम्बिकामाश्रये
वीरमाहेश्वरीं चारुधर्मक्रियां
🌷 पारगात्रान्तरागारसंवासिनीम्
किङ्कराशेषसम्पत्करीं शाङ्करी-
💐 मापदुत्तारिणीमम्बिकामाश्रये
🌷 पारगात्रान्तरागारसंवासिनीम्
किङ्कराशेषसम्पत्करीं शाङ्करी-
💐 मापदुत्तारिणीमम्बिकामाश्रये
ऐन्द्रवज्रादिकान्तिच्छटारञ्जिनीं
🌺 शेखरीभूतशुक्लेन्दुरेखाभराम्
मन्जुमञ्जीरशिञ्जत्पदाम्भोरुहा-
💮 मापदुत्तारिणीमम्बिकामाश्रये
🌺 शेखरीभूतशुक्लेन्दुरेखाभराम्
मन्जुमञ्जीरशिञ्जत्पदाम्भोरुहा-
💮 मापदुत्तारिणीमम्बिकामाश्रये
वामहस्तेन जिह्वाञ्चलां वैरिणः
🌸 पाणिना दक्षिणेनायुधं मुद्गरम्
बिभ्रतीं पीतवर्णा (म्बरा)लङ्कृता-
🌟 मापदुत्तारिणीमम्बिकामाश्रये
🌸 पाणिना दक्षिणेनायुधं मुद्गरम्
बिभ्रतीं पीतवर्णा (म्बरा)लङ्कृता-
🌟 मापदुत्तारिणीमम्बिकामाश्रये
पुस्तकं पाशमक्षसजं चाङ्कुशं
🌹 दोर्लताभिर्दधानां त्रिनेत्रान्विताम्
बालिकां त्रैपुरीपुण्डरीकप्रभा-
💐 मापदुत्तारिणीमम्बिकामाश्रये
🌹 दोर्लताभिर्दधानां त्रिनेत्रान्विताम्
बालिकां त्रैपुरीपुण्डरीकप्रभा-
💐 मापदुत्तारिणीमम्बिकामाश्रये
ब्रह्मशौरीन्द्रमुख्यामरप्राप्तना-
🌷 नायुधाच्छाननां स्रग्विभूषान्विताम्
भर्गपत्नीं सुदुर्गामभीष्टप्रदा-
💮 मापदुत्तारिणीमम्बिकामाश्रये
🌷 नायुधाच्छाननां स्रग्विभूषान्विताम्
भर्गपत्नीं सुदुर्गामभीष्टप्रदा-
💮 मापदुत्तारिणीमम्बिकामाश्रये
Comments
Post a Comment